त्रयो धर्मस्कन्धाः...

विकिसूक्तिः तः

त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचारी
आचार्यकुलवासी तृतीयः अत्यन्तम् आत्मानम् आचार्यकुले अवसादयन्; सर्वे
एते पुण्यलोका भवन्ति । ब्रह्मसंस्थो अमृतत्वमेति ॥ - छान्दोग्योपनिषत् २-२३-१

धर्मस्य त्रयः स्कंधाः; यज्ञः, अध्ययनं, दानम् इति प्रथमः स्कंधः; तप अनुष्ठानतत्परः वानप्रस्थः
द्वितीयः स्कंधः; नैष्ठिकब्रह्मचारी सन् गुरुकुलवासी गुरुसेवातत्परः ब्रह्मचारी तृतीयः स्कंधः; एते
त्रयोऽपि पुण्यान् लोकान् प्राप्नुवन्ति । ब्रह्मसंस्थः ज्ञानी तु अमृतत्वमेव मोक्षमेव एति ॥

एक एव धर्मः गृहस्थधर्मः, वानप्रस्थधर्मः, ब्रह्मचारिधर्मः इति त्रिधा विभक्तः । यजनयाजने, अध्ययन
अध्यापने, दानप्रतिग्रहौ इति षट् गृहस्थधर्माः; शरीरस्य दण्डनम्, उपवासः मौनादीनि च वानप्रस्थस्य
धर्माः; सद्गुरुसेवा, भिक्षा, ब्रह्मचर्यादीनि च ब्रह्मचारिणः धर्माः । एतेषां त्रयाणामपि पुण्यलोकप्राप्तिः
फलं भवति । ब्रह्मनिष्ठस्य संन्यासिनः आत्मविदस्तु मोक्ष एव फलं लभ्यते । परिपूर्णब्रह्मात्मविदः ब्रह्मिष्ठस्य
जीवन्मुक्तिरेव फलम् ॥

"https://sa.wikiquote.org/w/index.php?title=त्रयो_धर्मस्कन्धाः...&oldid=16367" इत्यस्माद् प्रतिप्राप्तम्