दक्षः श्रियमधिगच्छति...

विकिसूक्तिः तः
Jump to navigation Jump to search

सुभाषितम्

दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी ।
उद्युक्तो विद्यान्तं धर्मार्थयशांसि च विनीतः ॥
- सुभाषितरत्नभाण्डागारः




तात्पर्यम्

दक्षः जनः एव ऐश्वर्यं विन्दति । पथ्यम् आहारं यः भुङ्क्ते सः एव आरोग्यवान् भवति । रोगरहितः एव सुखी भवति । यः परिश्राम्यति सः एव विद्यायां परिणतः भवति । विनयशीलेन धर्मः, अर्थः, यशः च प्राप्यते । दक्षता अथवा सामर्थ्यं, सात्त्विकाहारस्य उपयोगः, परिश्रमशीलता, विनयः - एते जीवनस्य साफल्यस्य हेतवः भवन्ति इति कथयति रविगुप्तनामकस्य कवेः अयं श्लोकः । स्मृद्धजीवनस्य कारणीभूतान् गुणान् वर्णयता तेन 'दक्षता'गुणाय प्राथम्यं दत्तमस्ति । अद्यत्वे विद्यमानाः समस्याः यदि अवलोकयेम ज्ञायेत यद् विविधेषु स्तरेषु विद्यमाना अदक्षता एव कारणम् इति । वैचारिकादक्षता व्यावहारिकादक्षता च अस्माभिः अपसारणीया । सरलचिन्तनं सरलः व्यवहारश्च अनिवार्यमात्रं न अपि तु भवति आनन्ददायकः इत्येतत् सत्यं सर्वैः यदि अवगम्येत तर्हि वैयक्तिकं समाधानं, सामाजिकं स्वास्थ्यम्, आर्थिकी सुरक्षा च निश्चयेन भविष्यति ।