दण्डसर्पमारणन्यायः

विकिसूक्तिः तः

सर्पं दृष्ट्वा मनुष्यः तं हन्तुम् एव सहसा उद्युक्तः भूत्वा दण्डान्वेषणॆ प्रवृत्तः भवति । दण्डः न लभ्यते चेदपि अनायासेन लब्धं कुठारं स्वीकृत्य सर्पमारणे सः प्रवृत्तः भवति । एवं लघूपाये सति कठिनोपायस्य अवलम्बनं न्यायेन अनेन सूच्यते । (सा. २५१)

"https://sa.wikiquote.org/w/index.php?title=दण्डसर्पमारणन्यायः&oldid=10535" इत्यस्माद् प्रतिप्राप्तम्