दण्डापूपन्यायः

विकिसूक्तिः तः

एकदा एकः दण्डः एकः अपूपश्च एकत्रैव बध्दौ । तदा केनचित् इयं वार्ता श्रुता यत् केनचित् मूषिकेण सः दण्डः खादितः इति । तदा ज्ञातं तेन मूषिकेण दण्डेन सह अपूपः अपि खादित इति । एवम् एकत्र संबद्धयोः द्वयोः एकस्य विषये यत् घटितं तत् अपरस्य अपि विषये घटितम् एव इति अस्माकं निर्णयः भवति ।

द्रष्टव्यम्-

1. मूषिकेण दण्डो भक्षित इति अनेन तत्सहचरितम् अपूपभक्षणम् अर्थादायातं भवति इति नियतसमानन्यायात् अर्थान्तरम् आपतति इत्येव न्यायो दण्डापूपिकः । 2. तव सुन्दरमुखेन चन्द्रः अपि जितः इत्युक्ते कमलानि अपि जितानि इति स्वयमेव सिद्ध्यति खलु । एतत् काव्यार्थापत्तेः उदाहरणम् । अत्र अस्य न्यायस्य प्रयोगः कृतः । 3. संभावितस्य स्वतन्त्रस्य पितृस्थानीयस्य ज्येष्ठस्यापि दोषं वदता ज्येष्ठपरतन्त्राणां कनीयसां पुत्रस्थानीयानां दण्डापूपनीत्या सुतरां दोषो दर्शित एव । (याज्ञवल्क्यस्मृति – मिताक्षरटीका २-१२६)

"https://sa.wikiquote.org/w/index.php?title=दण्डापूपन्यायः&oldid=17623" इत्यस्माद् प्रतिप्राप्तम्