दण्डिन्यायः

विकिसूक्तिः तः

क्वचित् बहवो जनाः गच्छन्तः आसन् तेषु केषाञ्चन हस्तेषु दण्डाः आसन् अपरेषां न । तथापि सर्वेषां विषये दण्डधारिणः गच्छन्ति इत्येव प्रयोगः दृश्यते । एवं प्राधान्येन व्यपदेशः भवतीति सूचयितुं न्यायस्य अस्य प्रयोगो भवति । तुल्यः छत्रिन्यायः ।

"https://sa.wikiquote.org/w/index.php?title=दण्डिन्यायः&oldid=10553" इत्यस्माद् प्रतिप्राप्तम्