दन्तेर्हीनः शिलाभक्षी...

विकिसूक्तिः तः

दन्तेर्हीनः शिलाभक्षी निर्जीवो बहुभाषकः ।
गुणास्यूति समृद्धोऽपि पर पादेन गच्छति॥

दन्ताः न विद्यन्ते चेदपि शिलाः खादति । जीवः नास्ति चेदपि बहु सम्भाषणं करोति । बहुभिः गुणैः युक्तश्चेदपि अन्यान् अनुसरति । किं स्यात् ?

उत्तरम्

पादरक्षा