दम्पतीकलहन्यायः

विकिसूक्तिः तः

दम्पती कदाचित् परस्परं कलहं कुरुतः । तदा अन्ये चिन्तयन्ति यत् अनयोः संबन्धः शाश्वतरुपेण नष्टः एव इति । परन्तु किञ्चित्कालानन्तरं तौ दम्पती पूर्वप्रेम्णा एव व्यवहारम् आरभेते । पूर्वकलहः नष्टः । एवं तात्कालिकरुपेण उत्पद्य अचिरादेव विनष्टस्य विषये अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=दम्पतीकलहन्यायः&oldid=10555" इत्यस्माद् प्रतिप्राप्तम्