दर्वीपाकरसन्यायः

विकिसूक्तिः तः

पात्रे वर्तमानस्य पदार्थस्य पाकसमये सम्यक् मिश्रणाय दर्वीनामक चमसविशेषस्य विनियोगः क्रियते । कियन्तम् अपि कालं यावत् पात्रे स्थिता दर्वी पात्रगतानां पदार्थानां मिश्रणाय उपयुक्ता भवति चेदपि तेषां पदार्थानां रसास्वादं कर्तु न शक्नोति ।

एवं मन्दबुद्धेः सविधे बहवः ग्रन्थाः भवन्ति चेदपि, सः सर्वान् पठति चेदपि तेषां ग्रन्थानाम् आकलनं कर्तुं न शक्नोति । एवं ग्रहणशक्तेः अभावे केवलात् सान्निध्यात् रसग्रहणं न भवतीति अनेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=दर्वीपाकरसन्यायः&oldid=10486" इत्यस्माद् प्रतिप्राप्तम्