दर्शिततापोच्छ्रायैः...

विकिसूक्तिः तः

सुभाषितम्

दर्शिततापोच्छ्रायैस्तेजोवद्भिः सुगोत्रसजातैः ।
हीरैरप्स्विव धीरैरापत्स्वपि गम्यते नाधः ॥

darśitatāpocchrāyaistejovadbhiḥ sugotrasajātaiḥ ।
hīrairapsviva dhīrairāpatsvapi gamyate nādhaḥ

पदच्छेदः

दर्शितताप, उच्छ्रायैः, तेजोवद्भिः, सुगोत्रसजातैः, हीरैः, अप्सु, इव, धीरैः, आपत्सु, अपि, गम्यते, न, अधः ।


तात्पर्यम्

अत्यन्तं तेजोवद् वज्रमपि जले अवसीदति । किन्तु तेजोवन्तः धीराः आपत्कालेऽपि वजवत् न निमज्जन्ति । धैर्येण कष्टं निवारयन्ति, न पराभवं गच्छन्ति इति ।