दशमविवेकन्यायः

विकिसूक्तिः तः

दश मन्दमतयः एकदा एकं ग्रामं प्रति प्रस्थिताः । मार्गे एकः सर्वेषां गणनां कर्तुम् उद्युक्तः जातः । सः अन्येषां गणनां कृत्वा आत्मान् अगणयित्वा च वयं नव एव आगताः एकः कुत्रचित् भ्रष्टः इति आक्रोशं कृतवान् । तत् शृत्वा एकैकशः ते सर्वे अपि गणनां तथैव कृत्वा नवसंख्याम् एव प्राप्य दुः खेन आक्रोशम् आरब्धवन्तः । तदा एकः पथिकः तत्र आगत्य समस्यां च ज्ञात्वा तेषां गणनां कृतवान् । सः तावत् दशसंख्यां प्राप्तवान् । एकेन यदा पृष्टं सा कथं प्राप्ता इति तदा तेन भणितं ‘त्वम् अन्ते आत्मानम् अपि गणय’ इति ।

एवं खलु जगति अविवेकी आत्मान्वेषणे रतः सर्वत्र अन्विषति ‘अहम्’ इति भासमानम् आन्तरम् आत्मानं न गणयति । योग्यस्य आचार्यस्य उपदेशेन च सः आत्मनः यथार्थं रुपं जानातीति अस्य भावः ।

पश्यन्तु – पञ्चदशीतृप्तिदीपप्रकरणे

२३-२८

"https://sa.wikiquote.org/w/index.php?title=दशमविवेकन्यायः&oldid=10488" इत्यस्माद् प्रतिप्राप्तम्