दानं प्रियवाक्सहितं...

विकिसूक्तिः तः

सुभाषितम्

दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् ।
वित्तं त्यागनियुक्तं दुर्लभमेतत् चतुष्टयं लोके ॥




तात्पर्यम्

उत्तमैः वचनैः युक्तं दानं, गर्वरहितं ज्ञानं, क्षमायुतं शौर्यं, त्यागेन युक्ता सम्पत्तिः - एते चत्वारः लोके विरलतया दृश्यन्ते ।

"https://sa.wikiquote.org/w/index.php?title=दानं_प्रियवाक्सहितं...&oldid=14922" इत्यस्माद् प्रतिप्राप्तम्