दीनदयाल उपाध्यायः

विकिसूक्तिः तः
Jump to navigation Jump to search

पण्डितः दीनदयाल उपाध्यायः (सेप्टेम्बर् २५, १९१६ - फेब्रवरि ११, १९६८) भारतीयतत्त्वज्ञानी, अर्थशास्त्रज्ञः, इतिहासज्ञः, पत्रिकोद्यमी, राजनैतिकक्रान्तिकारी च आसीत् ।

अमृतवचनानि[सम्पाद्यताम्]

  • समग्रस्य राष्ट्रस्य सेवा करणीया इत्येतत् व्रतं वयम् आश्रितवन्तः स्मः । सर्वे देशवासिनः अस्माकं बान्धवाः । यावत् अहं भारतमातुः सुपुत्रः अस्मि इति सर्वे बान्धवाः गौरवं न अनुभवन्ति तावत् वयं तूष्णीं न स्थास्यामः । वयं भारतमातरं वस्तुतः अपि सुजलां सुफलां करिष्यामः । एषा दशप्रहरिणी दुर्गा भूत्वा असुराणां संहारं करिष्यति, लक्ष्मीः भूत्वा सर्वेषां समृद्धिं कल्पयिष्यति, सरस्वती भूत्वा अज्ञानान्धकारं दूरीकृत्य ज्ञानप्रकाशं प्रसारयिष्यति च । हिन्दुमहासागरेण हिमालयेन च परिवेष्टिते एतस्मिन् भरतखण्डे वास्तविकीं सङ्क्रान्तिम् आनेष्यामः । यावत् भरतखण्डे एकरसता, कर्मठता, समानता, सम्पन्नता, ज्ञानवत्ता, सुखं, शान्तिः चेति सप्तानां जाह्नवीनां पुण्यप्रवाहः न आनेष्यते तावत् अस्माकं भागीरथं तपः समाप्तिं न एष्यति ।


  • भारतीयसंस्कृतेः प्रथमं वैशिष्ट्यं नाम समग्रं जीवनं सम्पूर्णां सृष्टिं च सा अखण्डतादृष्ट्या पश्यति इति । तस्याः दृष्टिः एकात्मवादिनी अस्ति । खण्डशः चिन्तनं विशेषज्ञदृष्ट्या युक्तं स्यात् कदाचित् । किन्तु व्यावहारिकदृष्ट्या तत् अयुक्तम् एव । (एकात्मभावदर्शनम्, पृ - 18)


  • अर्थप्राबल्यवादेन समाजवादेन वा मानवः सम्यक्तया पूर्णतया वा न अवगतः एव । एकेन वादेन सः स्वार्थी, अर्थपरायणः, सङ्घर्षशीलः, मात्स्यन्यायप्रवणः जीवी इति भावितम् । अपरेण वादेन चिन्तितं यत् सः व्यवस्थायाः परिस्थितीनां च दासः, अकिञ्चनः, अनास्थामयः चेति । शक्तेः केन्द्रीकरणम् उभयत्रापि अभिप्रेतम् । तस्मात् उभयोः अपि फलम् अमानवीयकरणे एव पर्यवस्यति । भगवतः सर्वश्रेष्ठकृतिरूपः मानवः स्वत्वनाशं प्राप्नुवन् अस्ति । अस्माभिः सः तदीये स्थाने प्रतिष्ठापनीयः अस्ति, तदीयः गरिमा अवगमनीयः अस्ति, तदीया शक्तिः जागरणीया, देवत्वप्राप्तये तस्मिन् पुरुषार्थशीलता कल्पनीया च । (पं दीनदयाल उपाध्याय - कर्तृत्व एवं विचार, डा. महेशचन्द्र शर्मा, पृ. 132)


  • धर्मराज्यस्य स्वरूपं ‘साम्प्रदायप्रधानराज्यात्’ सर्वथा भिन्नम् एव । धर्मसम्प्रदायौ न अभिन्नौ । आङ्ग्लभाषीयं ‘रिलिजन्’पदं ‘धर्म’शब्देन अनूदितम् इत्यतः अयं भ्रमः समुत्पन्नः अस्ति । धर्मः व्यापकः । उपासनासम्प्रदायादयः एकम् अङ्गम् अधिकृत्य चिन्तयन्ति । चतुर्षु पुरुषार्थेषु अन्यतमस्य व्यक्तिगतम् आधारम् अवलम्ब्य सम्प्रदायः चिन्तयति । अतः धर्मराज्यं ‘थियोक्रेटिक् स्टेट्’ इति पदेन निर्देष्टुं योग्यं न भवेत् । यत्र राजा एव धर्मगुरुः भवेत् तत्र ‘थियोक्रसी’ इत्यस्य जन्म सम्भवेत् । भारते राज्ञे एतत् पदं कदापि न प्रदत्तम् एव । (राष्ट्रचिन्तन, राष्ट्रधर्म पुस्तकप्रकाशन, पृ. 132)


  • लोकमतपरिष्कारकार्यं तु वीतरागिणां द्वन्द्वातीतानां संन्यासिनाम् । लोकमतानुगुणं चलनं तु राज्यस्य कार्यम् । संन्यासिनः तु सर्वदा धर्मतत्त्वानुसारं जनानाम् ऐहिकम् आध्यात्मिकं च समुत्कर्षं कामयमानाः स्वस्य वचनैः निःस्पृहव्यवहारेण च जनजीवने संस्कारं समुत्पादयन्ति, जनान् धर्ममर्यादाम् अवगमयन्ति च । लोभः मोहः वा तेषु न भवति इत्यतः ते सहजतया सत्यम् उच्चारयितुम् अर्हन्ति । लोकशिक्षणस्य लोककल्याणस्य च ते एव केन्द्रभूताः ।


  • भारतीयसंस्कृतेः प्रमुखं वैशिष्ट्यं नाम सा सम्पूर्ण-जीवनस्य, समग्रसृष्टेः च सङ्कलितविचारविमर्शं करोति । तदीया दृष्टिः एकात्मवादयुक्ता अस्ति । खण्डशः चिन्तनं विशेषज्ञानां दृष्ट्या समीचीनं स्यात्, किन्तु व्यावहारिकदृष्ट्या तत् प्रयोजनाय न भवेत् । (एकात्ममानवदर्शनम्, पृ. 18)


  • शिक्षणं यावती व्यापिका गभीरा व्यवस्था प्रवर्तेत तावत् समाजः अधिकपुष्टः गभीरः च स्यात् । प्राचीनज्ञाननिधिः यत् प्राप्येत तत् एव मूलधनत्वेन मत्त्वा नूतनपरम्परीयाः जनाः जीवनकार्यक्षेत्रे अग्रे सरेयुः । प्राप्तं मूलधनं निरन्तरं प्रवर्धेत इति तु सहजम् एव । अतः शिक्षणविषये व्यापिका वैविध्यपूर्णा योजना करणीया अस्ति ।
"https://sa.wikiquote.org/w/index.php?title=दीनदयाल_उपाध्यायः&oldid=7087" इत्यस्माद् पुनः प्राप्तिः