दुष्टाश्वयुक्तमिव वाहमेनं...

विकिसूक्तिः तः

दुष्टाश्वयुक्तमिव वाहमेनं विद्वान् मनो धारयेत अप्रमत्तः । - श्वेताश्वतरोपनिषत् २-९

दुष्टाश्वैः युक्तं वाहनमिव दुष्टं मनः विद्वान् साधकः अप्रमत्तः सन् धारयेत् ॥

मनो नाम अत्यन्तं श्रेष्ठं साधनम् । इदं मनः मृदु कठोरं च । इन्द्रियाणि इदं मनः आत्माभिमुखं
कर्तुम् इन्छन्ति सन्ति अश्वा इव वर्तन्ते । यद्यपि रथः उत्तमः तथापि रथबद्धाः अश्वाः अदान्ताः
दुष्टाश्चेत् तदा विपद् आपतत्येव । तस्मात् विवेकिना सारथिना प्रथमं तावत् अश्वाः सुशिक्षितव्याः ॥

एवमेव अश्वस्थानीयानि इन्द्रियाणि सात्त्विकानि भवेयुः । इन्द्रियाणि योग्यानि चेत् मनश्च सात्त्विकं
भवत्येव । तस्मात् साधकेन इन्द्रियाणि मनश्च सात्त्विकानि कर्तव्यानि । सात्त्विकान् विषयानेव इन्द्रियेभ्यः
दद्यात् साधकः । सत्सङ्गः, सदाचारः, सद्वर्तनम्, जपः, तपः, पूजा, भक्तिः, नामस्मरणम्, कथाश्रवणम्,
सत्सहवासः, उपासनं च इत्यादिसाधनैः साधकः इन्द्रियाणि दान्तानि कुर्यात् । विषयध्यानं विहाय
आत्मचिन्तनम् वर्धनीयम् । सर्वथा अतिजागरूकतया एतत् साधनं मुमुक्षुणा विवेकिना अनुष्ठातव्यम् ॥