दूरात् सुदूरे तदिहान्तिके...

विकिसूक्तिः तः

अतिदूरस्थम् अतिसमीपस्थं च

दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् । - मुण्डकोपनिषत् ३-१-७

ब्रह्म दूरादपि दूरस्थमेव अज्ञानाम्, तथा विवेकिनाम् अन्तिके च ।
सम्यक् पश्यत्सु इहैव गुहायां निहितं ब्रह्म ॥

परमात्मा समीपे अस्ति वा दूरे वा ? इतिप्रश्नस्य प्रतिवचनं ‘दूरे च
अन्तिके चास्ति’ इति परमात्मानम् आत्मनः भिन्नभूतं कश्चित् पदार्थं
मन्यमानानां परमात्मा नाम ग्रहनक्षत्रादिभ्योऽपि अत्यन्तं दूरस्थ एव ।
अज्ञानादेव अविवेकिनः एवं मन्यन्ते ॥

सम्यक् विजानतां तु ब्रह्म समीपस्थम् एव । न हि समीपे ब्रह्म भवति ।
किन्तु स्वस्मिन्नेव ब्रह्म भवति । नैतदपि साधु, स्वयमेव ब्रह्मस्वरूप एव ।
आकाशः अस्माकं दूरे वा समीपे वा ? आकाशं कराभ्यां स्प्रष्टुं प्रयत्नं कुर्वतः
आकाशः दूरे भवति, सुदूरे, अतिदूरे, दूरातिदूरे भवति; किन्तु आकाशो नाम
किम् ? इति विचारे कृते आकाशः समीपतम एव भवति । सर्वव्यापकः निरवयवः
खलु आकाशः ? आकाशस्यापि कारणभूतः अन्तश्च बहिश्च विद्यमानः आत्मैव ।
आत्मस्वरूपवित् आत्मैव भवति ॥