देवताधिकरणन्यायः

विकिसूक्तिः तः

श्रुतिवाक्यानि मूर्तिबोधकानि उपासनापराणि इति केषाञ्चन विदुषां मतम् । वस्तुतः मूर्तिरुपं विग्रहरुपं वा केवलम् आरोपितम् एव । आरोपितस्य अपि तस्य उपासना फलं साधयितुं क्षमते । अतः ईश्वरस्य मूलविग्रहकल्पना तर्कशुद्धा नास्ति इति केनचिदुच्यते तर्हि उत्तरम् एवम् अस्ति यत् कानिचन श्रुतिवाक्यानि उपासनापराणि भवन्ति चेदपि अविरोधे देवताधिकरणन्यायेन अर्थसिद्धिः भवति इति अनेन

बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=देवताधिकरणन्यायः&oldid=10523" इत्यस्माद् प्रतिप्राप्तम्