देवानां नन्दनो देवो...

विकिसूक्तिः तः


चित्रकाव्यम्

देवानां नन्दनो देवो नोदनो वेदनिन्दिनाम् ।
दिवं दुदाव नादेन दाने दानवनन्दिनः ॥


वैशिष्ट्यम्

अस्मिन् श्लोके द व न इत्येतत् वर्णत्रयमात्रम् उपयुक्तम् ।


अर्थः

भगवान् (विष्णुः) यः अन्येषां देवानां सुखदाता अस्ति, वेदनिन्दकानां दुःखदाता विद्यते, तेन हिरण्यकशिपोः (कश्चन दानवः यः विष्णोः नामस्मरणात् पुत्रं प्रतिषेधति ।) वधावसरे आकाशः महारवेण सम्पूरितः ।



"https://sa.wikiquote.org/w/index.php?title=देवानां_नन्दनो_देवो...&oldid=14851" इत्यस्माद् प्रतिप्राप्तम्