देवैरत्रापि विचिकित्सितं...

विकिसूक्तिः तः

देवैरत्रापि विचिकित्सितं पुरा ।
न हि सुविज्ञेयम् अणुरेष धर्मः ॥ - काठकोपनिषत् १-१-२१

देवतानामपि परब्रह्मस्वरूपनिर्णये संशयो विद्यते । यस्मात् प्रत्यक्षादिप्रमाणैः
परं तत्त्वं सम्यग् अवगन्तुं न शक्यते ॥

उपनिषत्सु प्रतिपादितो ह्यात्मा औपनिषदः पुरुषः । अस्यैव परं ब्रह्म इत्यपि नाम
भवति । अस्य आत्मनः नामरूपक्रियागुणधर्माः न विद्यन्ते । अतः इमम् आत्मानं
तर्केण वा शास्त्रपाण्डित्येन वा विज्ञातुं नैव शक्यते ॥

इन्द्रचन्द्र आदित्यादिदेवताभिश्च अयमात्मा अवगन्तुं न शक्यते । देवाः सर्वज्ञाः
सर्वशक्ताश्च, सिद्धिसम्पन्नाः अद्भुता एव । तावन्मात्रेणा देवैः परं ब्रह्म अधिगतमेव
इति नियमो नास्ति । महामहा देवाधिदेवाश्च विचारं कृत्वा, चर्चां कृत्वा, विमृश्यापि
परब्रह्मस्वरूपे अलब्धनिर्णयाः शान्ताः । किमु वक्ततव्वं सामान्या मानवाः स्वबुद्धिसामर्थ्येन
आत्मानं न जानीयुरिति ? अध्यारोपापवादसम्प्रदाय विद्भ्यः श्रोत्रियब्रह्मनिष्ठेभ्यः
सद्गुरुभ्य एव ब्रह्म अवगन्तव्यम्, न तु स्वबुद्ध्या ॥