देवो भूत्वा देवान् अप्येति...

विकिसूक्तिः तः
Jump to navigation Jump to search

देवो भूत्वा देवान् अप्येति य एवं विद्वान् एतदुपास्ते । - बृहदारण्यकोपनिषत् ४-१-२

यः एवं देवतास्वरूपं विद्वान् देवतोपासनं करोति, सः तादृश देवतास्वरूप एव सन् मरणानन्तरं
तामेव देवताम् अप्येति ॥

‘देवो भूत्वा देवानप्येति’ इत्येषः मन्त्रः बृहदारण्यकोपनिषदि षड्वारम् श्रूयते । अयं मन्त्रः उपासनस्य
महत्त्वं दर्शयति । याम् देवताम् उपास्ते तस्याः देवतायाः साक्षात्कारम् अस्मिन्नेव जन्मनि प्राप्य,
मरणानन्तरं तस्याः देवतायाः सायुज्यमेव प्राप्नोति इत्यर्थः ॥

उपासनस्य द्वे फले भवतः । एकं दृष्टं फलम्, अपरम् अदृष्टं फलम् । देवतासाक्षात्कार एव दृष्टं फलम्,
देवतासायुज्यं तु अदृष्टं फलम् । जीवत एव उपासकस्य देवतानुग्रहेण सकलाः सम्पदः लभ्यन्ते,
देवतासाक्षात्कारश्च भवति । निग्रहानुग्रहशक्तिः, अष्टसिद्धयश्च प्राप्यन्ते । ततो मरणानन्तरं
तद्देवतासायुज्यप्राप्तिश्च भवति । न त्वेषा मुक्तिः । ज्ञायताम् । यतः उपासकस्यापि देवलोकात्
पतनभीतिः अस्त्येव ॥