सामग्री पर जाएँ

द्वावेव न विराजेते...

विकिसूक्तिः तः

सुभाषितम्

द्वावेव न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥

महाभारतम्, उद्योग पर्व - ३३/५७

dvāveva na virājete viparītena karmaṇā । gṛhasthaśca nirārambhaḥ kāryavāṃścaiva bhikṣukaḥ ॥

पदच्छेदः

द्वौ, एव, न, विराजेते, विपरीतेन, कर्मणा, गृहस्थः, च, निरारम्भः, कार्यवान्, च, एव, भिक्षुकः ॥


तात्पर्यम्

स्वस्य गृहस्थकर्तव्यानां पालनम् अकुर्वन् गृहस्थः, लौकिककार्येषु व्यापृतः संन्यासी - एतौ उभौ स्वस्य विपरीतकर्मणा जनानां पुरस्कारं न प्राप्नुवन्ति ।


आङ्ग्लार्थः

These are only two persons who will never be recognized by people on account of their infelictious acts viz. a house holder who does not carry out any activity that is essential for the maintenance of the household, and a mendicant who is concerned with worldly affairs.

"https://sa.wikiquote.org/w/index.php?title=द्वावेव_न_विराजेते...&oldid=18125" इत्यस्माद् प्रतिप्राप्तम्