धनानि जीवितं चैव...

विकिसूक्तिः तः

सुभाषितम्

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥

हितोपदेशः-मित्रलाभः-४४

dhanāni jīvitaṃ caiva parārthe prājña utsṛjet ।
sannimitte varaṃ tyāgo vināśe niyate sati ॥

पदच्छेदः

धनानि, जीवितं, च, एव, परार्थे, प्राज्ञ, उत्सृजेत्, सन्निमित्ते, वरं, त्यागः, विनाशे, नियते, सति ।


तात्पर्यम्

ज्ञानी स्वस्य धनं जीवितं च परार्थाय एव अर्पणीयम् । यतः ऐश्वर्यं जीवनञ्च न हि शाश्वतम् । एवं स्थिते उत्तमकारणाय एव त्यागः योग्यः भवति ।


आङ्ग्लार्थः

A wise and wealthy person should always give away his wealth for saving the lives of needy persons. It is preferable to spend it for this noble cause, because ultimately all wealth is destined to be destroyed.

"https://sa.wikiquote.org/w/index.php?title=धनानि_जीवितं_चैव...&oldid=17853" इत्यस्माद् प्रतिप्राप्तम्