सामग्री पर जाएँ

धनेन किं यो न...

विकिसूक्तिः तः

सुभाषितम्

धनेन किं यो न ददाति नाश्नुते
बलेन किं यश्च रिपून् न बाधते
श्रुतेन किं यो न च धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥

हितोपदेशः-मित्रलाभः-१९

dhanena kiṃ yo na dadāti nāśnute
balena kiṃ yaśca ripūn na bādhate ।
śrutena kiṃ yo na ca dharmamācaret
kimātmanā yo na jitendriyo bhavet ॥

पदच्छेदः

धनेन, किं, यः, न, ददाति, न, अश्नुते, बलेन, किम्, यः, च, रिपून्, न, बाधते । श्रुतेन, किम्, यः, न, च धर्ममाचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥


तात्पर्यम्

दाने भोगे च धनं न उपयुज्येत तर्हि किं तस्य धनस्य प्रयोजनम् ? यदि बलवान् शत्रून् प्रतिरोधं कर्तुम् असमर्थः, तस्य बलेन किं प्रयोजनम् ? विद्वान् यदि धर्मं न आचरेत् तर्हि विद्यायाः किं प्रयोजनम् ? अङ्गवशं कर्तुं असमर्थः चेत् जीवनस्य कः अर्थः ?


आङ्ग्लार्थः

If a person doesn’t utilize his wealth for charity and enjoyment, what is the use of his wealth? If a strong one is unable to resist his enemies, what is the use of his strength? What is the use of learning if a learned person does not practice virtuousness himself? What is the meaning of life if one is unable to subdue his organs?

"https://sa.wikiquote.org/w/index.php?title=धनेन_किं_यो_न...&oldid=18131" इत्यस्माद् प्रतिप्राप्तम्