धर्मादर्थ प्रभवति...

विकिसूक्तिः तः

सुभाषितम्

धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।
धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥
(रामायणम्, अरण्यकाण्डः ९/३०)




तात्पर्यम्

धर्मात् धनं वर्धते । धर्मात् सुखस्य अपि वृद्धिः भवति । धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत् धर्मसारभूतं विद्यते ।

"https://sa.wikiquote.org/w/index.php?title=धर्मादर्थ_प्रभवति...&oldid=15146" इत्यस्माद् प्रतिप्राप्तम्