धान्यपलालन्याययः

विकिसूक्तिः तः

पलालो नाम तुषः । तुषनिष्कासनात् अनन्तरमेव धान्यम् उपयुज्यते । तथैव ग्रन्थानाम् अध्ययने अनावश्यकभागान् परित्यज्य केवलम् उपयोगिनां ग्रहणं कर्तव्यम् । विवेकेन सारग्रहणं कर्तव्यम् इति अस्य न्यायस्य भावः ।

यथा : १ शास्त्राण्यधीत्य मेधावी ह्यभ्यस्य च पुनः पुनः ।

परमं ब्रह्म विज्ञाय ह्युल्कावत् तान्यथोत्सृजेत् ॥

२ ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद् ग्रन्थमशेषतः ॥ ब्रह्मबिन्दूपनिषद् १४ ३ पतञ्जलिमहाभाष्ये १-२.३९;३.३.१८;४.२.४; १-९२

"https://sa.wikiquote.org/w/index.php?title=धान्यपलालन्याययः&oldid=10389" इत्यस्माद् प्रतिप्राप्तम्