सामग्री पर जाएँ

धीराः शोकं तरिष्यन्ति...

विकिसूक्तिः तः

{{पृष्ठपट्टिका-सुभाषितम्


सुभाषितम्

धीराः शोकं तरिष्यन्ति लभन्ते सिद्धिमुत्तमाम् ।
धीरैः सम्प्राप्यते लक्ष्मीः धैर्यं सर्वत्र साधनम् ।

महासुभाषितसङ्ग्रह:

dhīrāḥ śokaṃ tariṣyanti labhante siddhimuttamām ।
dhīraiḥ samprāpyate lakṣmīḥ dhairyaṃ sarvatra sādhanam ॥

पदच्छेदः

लभन्ते सिद्धिम् उत्तमाम् धीरैः सम्प्राप्यते लक्ष्मीः धैर्यं सर्वत्र साधनम् ॥


तात्पर्यम्

धीराः उत्साहिनः जनाः शोकसागरं तरिष्यन्ति । श्रेष्ठां सिद्धिं प्राप्नुवन्ति । ऐश्वर्यमपि प्राप्नुवन्ति । अतः एव उच्यते - धैर्यं सर्वस्य प्राप्तेः साधनमस्ति इति ।


आङ्ग्लार्थः

Brave and resolute persons are capable of overcoming grief and achieve success in their life. Such persons become wealthy and prosperous. Therefore, patience and courage is always the best means of achieving success in one's life.