धूमाग्निन्यायः

विकिसूक्तिः तः

यत्र यत्र धूमः तत्र तत्र वहिनरिति धूमस्य अग्नेश्च संबन्धः नियतरुपेण भवति ।अयमेव साहचर्यनियमः तर्कशास्त्रे व्याप्तिरिति कथ्यते । धूमस्य दर्शनेन अग्नेः अस्तित्वस्यापि ज्ञानं भवति । यद्यपि अग्निः तत्र प्रत्यक्षः नास्ति तथापि धूमात् अग्नेः ज्ञानं भवति । न्यायशास्त्रे धूमः अग्नेः हेतुः, बोधकः, गमकः, ज्ञापकः च भवति ।

धूमाग्नौ इव यौ द्वावपि नियतरुपेण एकत्र भवतः तयोर्विषये अस्य न्यायस्य प्रयोगो भवति ।

पश्यन्तुः नियतसाहचर्यं व्याप्तिः । तर्कसंग्रह- अनुमानखण्डे

"https://sa.wikiquote.org/w/index.php?title=धूमाग्निन्यायः&oldid=10405" इत्यस्माद् प्रतिप्राप्तम्