नग्नः क्षपणके देशे रजकः किं

विकिसूक्तिः तः
Jump to navigation Jump to search

किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते | नग्नक्षपणके देशे रजकः किं करिष्यति ||

यस्मिन् स्थाने श्रोतारः न भवन्ति तत्र कथावाचकस्य आवश्यकता का ? यस्मिन् देशे साधवः वस्त्रमेव न धरन्ति तत्र रजकस्य आवश्यकता न भवति ननु |