नमः परमऋषिभ्यो...

विकिसूक्तिः तः

नमः परमऋषिभ्यो नमः परमऋषिभ्यः । - मुण्डकोपनिषत् ३-२-११

परममहर्षिभ्यः पुनः पुनः नमांसि भूयांसि ।

अस्माकम् भारतीय-सनातन-हिंदूसंस्कृतौ नमस्कारस्य विशेषमहत्त्वमस्ति । नमस्कारो नाम
भक्तिपूर्विका कृतज्ञता । गौरवपूर्विका प्रीतिपूर्विका गुरुदक्षिणा हि नमस्कारः । इतरेभ्यः उपकारे
स्वीकृते कृतज्ञतापूर्वकं क्रियमाणः प्रत्युपकारो हि नमस्कारः । नमस्कारो न चमत्कारपुरस्सरः,
किं तु श्रद्धागौरव भक्तिकृतज्ञतासहितो भवेत् ॥

लौकिकविद्याविषये एव एवं स्थिते, किमु वक्तव्यं ब्रह्मविद्याचार्याणां महर्षीणां विषये । भक्तिपूर्वकं
नमस्कारार्हा इमे । ब्रह्मविद्यासम्प्रदायप्रवर्तकाः एते सर्वे ब्रह्मर्षय एव, महर्षय एव । कृतार्थैः शिष्यैः
सद्गुरुभ्यः देया गुरुदक्षिणा नाम भक्तिपूर्वकः नमस्कार एव । ये गुरवः अस्मान् अस्मात् जन्ममरणरूपात्
संसारसागरात् आत्मविद्योपदेशेन तारितवन्तः तेभ्यः ब्रह्मविद्याचार्येभ्यः भूयो भूयो साष्टाङ्गनमांसि भूयांसि भवन्तु ॥

"https://sa.wikiquote.org/w/index.php?title=नमः_परमऋषिभ्यो...&oldid=16570" इत्यस्माद् प्रतिप्राप्तम्