सामग्री पर जाएँ

नवनीतोपमा वाणी...

विकिसूक्तिः तः


सुभाषितम्

नवनीतोपमा वाणी करुणा कोमलं मनः ।
धर्मबीजप्रसूतानाम् एतत् प्रत्यक्षलक्षणम् ॥

पद्मपुराणम् १-४९-१३१

navanītopamā vāṇī karuṇā komalaṃ manaḥ ।
dharmabījaprasūtānām etat pratyakṣalakṣaṇam ॥

पदच्छेदः

नवनीतोपमा वाणी करुणा कोमलं मनः धर्मबीजप्रसूतानाम् एतत् प्रत्यक्षलक्षणम् ॥


तात्पर्यम्

नवनीतवत् मृदु वचनं, दयया युक्तं मृदु मनः - इत्येते धर्मात्मनां प्रत्यक्षलक्षणे।


आङ्ग्लार्थः

Soft words like fresh butter, soft minds full of compassion - these are the direct characteristics of the righteous.

"https://sa.wikiquote.org/w/index.php?title=नवनीतोपमा_वाणी...&oldid=18180" इत्यस्माद् प्रतिप्राप्तम्