नहीदृशं संवननं...

विकिसूक्तिः तः

सुभाषितम्

नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥

महाभारतम्-१-८१-२०

nahīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate ।
dayā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk ॥

पदच्छेदः

नहि, ईदृशं, संवननं, त्रिषु, लोकेषु, विद्यते, दया, मैत्री, च, भूतेषु, दानं, च, मधुरा, च, वाक् ॥


तात्पर्यम्

करुणा, स्नेहः, दानं, मधुरं वचनम् इत्येतेषां समानम् आकर्षणशक्तियुतं वस्तु जगति नान्यद् किमपि विद्यते।


आङ्ग्लार्थः

There can not be better qualities found in the beings of all three worlds than these – compassion, friendship, selfless charity and sweet words.

"https://sa.wikiquote.org/w/index.php?title=नहीदृशं_संवननं...&oldid=17812" इत्यस्माद् प्रतिप्राप्तम्