नानानुयायिनां...
दिखावट
चित्रकाव्यम्
नानानुयायिनां मान्यं नमामि यमिनामिनम्।
नुन्ना मायामयी नूनमनूना येन यामिनी ॥
वैशिष्ट्यम्
अस्मिन् श्लोके न य म इत्येतत् वर्णत्रयमात्रम् उपयुक्तम् ।
अर्थः
नाना अनुयायिनां मान्यम्, यमिषु श्रेष्ठम्, येन मायामयी यामिनी नूनं नुन्ना (दूरं प्रेषिता) तं (संन्यािसनम्) नमामि ।