नायमात्मा बलहीनेन लभ्यो...
नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् । - मुण्डकोपनिषत् ३-२-४
बलहीनेन साधकेन नात्मा ज्ञायते; प्रमादात्, लिङ्गरहितात् तपसो वा आत्मा न लभ्यते ।
बलहीनो नाम दुर्बलः । बलं, धैर्यं, शाक्तिः इति पर्यायपदानि । बलं नाम नैषा शरीरस्य वा बुद्धेर्वा शक्तिः । किं
तु विवेकस्य बलम्, आत्मज्ञानस्य बलम्, आत्मनिष्ठाजातम्, अनुभवस्य बलमेतत् । विवेकज्ञानबलमेव हि बलं
नाम । बलान्तराणि सर्वाणि दुर्बलान्येव । एतैः दुर्बलैः नात्मा अवगन्तुं शक्यते । न च प्रमादात् आत्मा ज्ञातुं
शक्यते । प्रमादो नाम लौकिकवस्तुषु विशेषानुरागनिमित्तः अध्यासातिशयः । एवं प्रमत्तस्यापि आत्मज्ञानं नोदेति ॥
विवेकवैराग्यमुमुक्षुत्वादिरहितात् केवलात् शास्त्रपाण्डित्यादपि नात्मज्ञानम् उदेति । न हि आत्मानं ज्ञातुम् अतीव
बुद्धिमता भाव्यम्, न च विशेषशक्तिमता भाव्यम् , न च विशेषविद्यावता भाव्यम् । ईदृशैः विशेषबुद्धिशक्तिविद्यासामर्थ्यैः
लौकिकसम्पदः प्राप्येरन्, न तु मुक्तिः । अतः लौकिकदृष्ट्या धनादिसम्पद्भिः बलिष्ठोऽपि अनात्मज्ञश्चेत् वेदान्तदृष्टया
बलहीन एव ॥