नारिकेलफलाम्बुन्यायः

विकिसूक्तिः तः

लोकेबहवः गूढविषयाः सन्ति यथा नारिकेलफलस्य बहिः कठिना त्वक् भवति परम् अन्तः अत्यन्तं मधुरं जलं भवति । अयम् एकः गूढविषयः । एवं एकस्मात् ब्रह्मणः विविधस्य जगतः निर्माणं कथम् अभवत् इति गूढविषयः । तथैव लक्ष्मीः (ऎश्वर्यं) कथं कदा च आगच्छति । कियन्ति दिनानि यावत् स्थिरा भवति इति च गूढविषयः । एतादृशानां गूढविषयाणां कृते अस्य प्रयोगो भवति ।