नास्ति वेदात् परं...

विकिसूक्तिः तः

सुभाषितम्

'नास्ति वेदात् परं शास्त्रं नास्ति मातुः परो गुरुः ।
नास्ति दानात् परं मित्रम् इहलोके परत्र च ॥




तात्पर्यम्

ईहलोके च परलोके वेदात् परं शास्त्रं नास्ति, मातुः परो गुरुः नास्ति, दानात् परं मित्रं नास्ति ।

"https://sa.wikiquote.org/w/index.php?title=नास्ति_वेदात्_परं...&oldid=15819" इत्यस्माद् प्रतिप्राप्तम्