सामग्री पर जाएँ

नाहं जानामि केयूरे...

विकिसूक्तिः तः


सुभाषितम्

नाहं जानामि केयूरे नाहं जानामि कुण्डले ।
नूपुरेत्वभिजानामि नित्यं पादाभिवन्दनात् ॥

वाल्मीकिरामायणम् -४-६-२२

nāhaṃ jānāmi keyūre nāhaṃ jānāmi kuṇḍale ।
nūpuretvabhijānāmi nityaṃ pādābhivandanāt ॥

पदच्छेदः

नाहं जानामि केयूरे नाहं जानामि कुण्डले नूपुरे तु अभिजानामि नित्यं पादाभिवन्दनात् ॥


तात्पर्यम्

केयूरे (बाह्वोः आभरणम्) अहं न अभिजानामि । कर्णकुण्डले अपि न अभिजानामि । किन्तु नित्यं पादाभिवन्दनसमये दृष्टम् इत्यतः नूपुरे तु सम्यक् अभिजानामि । (सीतायाः आभरणं दृष्टवतः लक्ष्मणस्य वचनमिदम् ।)


आङ्ग्लार्थः

This is the ornament that Shriram asked Laxman to identify him. Then Lakshman said "I can't recognize these horoscope and arm bandh. But I can definitely say that this anklet belongs to them as they keep touching their feet daily.

"https://sa.wikiquote.org/w/index.php?title=नाहं_जानामि_केयूरे...&oldid=18193" इत्यस्माद् प्रतिप्राप्तम्