निचाय्य तत् मृत्युमुखात्...

विकिसूक्तिः तः
Jump to navigation Jump to search

निचाय्य तत् मृत्युमुखात् प्रमुच्यते । - काठकोपनिषत् १-३-१५

निरुपाधिकं तम् आत्मानं विज्ञाय मानवः मरणग्राहात् मुच्यते ।

आत्मा ज्ञातव्यः । आत्मनि ज्ञाते किं फलं भवति ? इत्युक्ते मुक्तिरेव फलम् । मुक्तिर्नाम मोक्षणम् ।
कस्मात् ? मृत्युमुखात् । मरणग्राहात् इत्यर्थः । मरणम् ! अयं शब्द एव अस्माकं भयङ्करः । मरणं,
मृत्युः, यमः – इत्यादयः शब्दाः, तद्विचारश्च – अमङ्गलः इत्येव सर्वे वदन्ति । एवं स्थिते, अमङ्गलात्
मरणात् मुक्तिश्चेत् कियान् आनन्दः ? कीदृशं सौभाग्यम् ? कीदृशं मङ्गलम् ? को वा नेच्छति मरणात् मुक्तिम् ?

ईदृशी मुक्तिः किमस्माभिः प्राप्तुं शक्यते ? इति चेत् नूनं शक्यते एव । तर्हि किं कर्तव्यम् ? आत्मा ज्ञातव्यः ।
अस्तु, स आत्मा कथम् अस्ति ? इति चेत् इयं श्रुतिः उपदिशति । आत्मा नाम शब्दस्पर्शरूपरसगन्धरहितः ।
आत्मनः देहेन्द्रियमनोबुद्धिप्राणसम्बन्धोऽपि नास्ति । आत्मा तु नित्यशुद्धनित्यबुद्धनित्यमुक्तस्वरूपः । आत्मा
हि सर्वविकाराणां साक्षिभूतः। आत्मा विकाररहितः कूटस्थस्वरूपः । एवम् आत्मानं विजानतः किं मरणभयं सम्भवति ?