निन्दन्तु नीतिनिपुणा...

विकिसूक्तिः तः

सुभाषितम्

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥

nindantu nītinipuṇā yadi vā stuvantu
lakṣmīḥ samāviśatu gacchatu vā yathēccham ।
adyaiva vā maraṇamastu yugāntarē vā
nyāyyātpathaḥ pravicalanti padaṁ na dhīrāḥ

पदच्छेदः

निन्दन्तु, नीतिनिपुणाः, यदि, वा, स्तुवन्तु, लक्ष्मीः, समाविशतु, गच्छतु, वा, यथेष्टम्, अद्य, एव, वा, मरणं, अस्तु युगान्तरे, वा, न्याय्यात्, पथः, प्रविचलन्ति, पदं, न, धीराः ।


तात्पर्यम्

नीतिनिपुणाः श्लाघन्ताम् उत निन्दन्तु, सम्पत्तिः प्राप्यताम् अथवा नष्टा भवतु, मरणम् अनुपदं भवतु, विलम्बेन वा भवतु - किन्तु धीराः कदापि विचलिताः न भवन्ति । कस्मिंश्चिदपि कठिनसन्दर्भे अपि न्याय्यं मार्गं न परित्यजन्ति ।