निर्धनमनोरथन्यायः

विकिसूक्तिः तः

निर्धनानां धनाभावेऽपि मनोरथाः (कामनाः) बहुविधा भवन्ति इति अस्य भावः । ते मनोरथाः विफलाश्च भवन्ति खलु । एवं विफलानां विषये अस्य न्यायस्य प्रयोगो भवति ।

उन्नम्योन्नम्य तत्रैव निर्धनानां मनोरथाः ।

हृदयेष्वेव लीयन्ते विधवास्त्रीस्तनाविव ॥ (लौकिकन्यायसाहस्त्रीतः सा.८०५)

"https://sa.wikiquote.org/w/index.php?title=निर्धनमनोरथन्यायः&oldid=10297" इत्यस्माद् प्रतिप्राप्तम्