नैतादृशं ब्राह्मणस्यास्ति वित्तं...

विकिसूक्तिः तः

सुभाषितम्

नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥

महा. शान्ति. १७५/३७

naitādṛśaṃ brāhmaṇasyāsti vittaṃ
yathaikatā samatā satyatā ca ।
śīlaṃ sthitirdaṇḍanidhānamārjavaṃ
tatastataścoparamaḥ kriyābhyaḥ ॥

पदच्छेदः

न, एतादृशं, ब्राह्मणस्य, अस्ति, वित्तं, यथा, एकता, समता, सत्यता, च, शीलं, स्थितिः, दण्डनिधानम्, आर्जवं, ततस्ततः, च, उपरमः, क्रियाभ्यः ।


तात्पर्यम्

ब्रह्मनिष्ठेन सम्पादनीयाः गुणसम्पत्तयः नाम - निश्चलता, सर्वसमता, हितवचनं, नैतिकदार्ढ्यम्, स्थैर्यम्, अहिंसा, ऋजुः व्यवहारः, असकृत् आत्मावलोकनञ्च ।
एतेषु निश्चलता, सत्यवचनम्, ऋजुः व्यवहारः इत्यादीनां गुणानां प्रामुख्यं सर्वे सुलभतया ग्रहीतुं शक्नुवन्ति । अध्यात्मिकप्रगतौ अवश्यम् इति व्यासेन सूचितः 'उपरमः' इत्येषः गुणः विशेषतया अवलोकनीयः । नैरन्तर्येण कार्यकरणं यावत् मुख्यं तावदेव मुख्यं भवति नियतम् आत्मावलोकनम् । तेन एव स्वस्य परिष्कारः शक्यः भवेत्, मनसः शान्तिः आसादिता भवेत् च ।


आङ्ग्लार्थः

For a Brahmana there is no wealth like unto the knowledge of oneness and homogeneity (of the Self in all beings). Truthfulness, good character, steadiness, harmlessness, straightforwardness and renunciation of all actions.