नैषा तर्केण मतिरापनेया...

विकिसूक्तिः तः

शुष्कतर्कस्य नावकाशोऽत्र

नैषा तर्केण मतिरापनेया । - काठकोपनिषत् १-२-९

एषा ब्रह्मात्मविद्या तर्केण न आपनेया ।

मनुष्यो अतीव बुद्धिमान् महामेधावी च । स्वबुद्धिसामर्थ्येन
अयं प्रचण्डमानवः सर्वं साधयेत्, सर्वं कुर्यात् । तर्कबलेन
मानवः सत्यम् अनृतं साधयेत्, अनृतं च सत्यं साधयेत् ।
शुष्कतर्केण अयं मानवः आत्मनः स्वार्थं सर्वं यथेष्टं साधयेत् ॥

अपि तु शुष्केण तर्केण नायं मानवः आत्मविद्यां प्राप्नुयात् ।
बाह्यानि अनात्मवस्तूनि विवेकबुद्ध्या गृह्णीयात् । प्रत्यगात्मानम्
अवगन्तुं तु चित्तशुद्धिरपेक्ष्यते । चित्तशुद्धिप्राप्त्यै शमः दमः
उपरतिः, तितिक्षा, श्रद्धा, समाधानं च साधनानि भवन्ति ।
एतैर्हि साधनैः अन्तः करणं शुद्धं भवति । शुद्धे परिपक्वे च
अन्तः करणे आत्मनः स्वरूपम् अवभासते । इन्द्रियमनोबुद्धिप्रकाशकं
प्रत्यगात्मानम् अनुभवेनैव जानीयात्, नासौ आत्मा तु केवलेन
शास्त्रपाण्डित्येन ज्ञातुं शक्यते । अनुभवानुसारिणः श्रौततर्कस्य
साहाय्येन सद्गुरूपदेशस्य अर्थम् अवगच्छेत् । सद्गुरूपदेशं विहाय
केवलेन शुष्कतर्केण आत्मा विज्ञातुं नैव शक्यते ॥