न जायते म्रियते...

विकिसूक्तिः तः

न जायते म्रियते वा विपश्चित् । - काठकोपनिषत् १-२-१८

आत्मा न जायते, न च म्रियते ।

उपनिषत्सु उपदिष्टस्य आत्मनः स्वरूपं सम्यग् ज्ञातव्यम् ।
देहेन्द्रियमन आदिभ्यः उपाधिभ्यः विलक्षणम् आत्मानम्
उपदिशन्ति वेदान्ताः । अयमेव प्रत्यगात्मा इति कथ्यते ।
वेदान्तान् विहाय इतराणि सर्वाण्यपि दर्शनानि तथा मतानि
आत्मानं संसारिणं जीवमेव वदन्ति । देहादीनां धर्मान् आत्मन्येव
वयम् अविद्यया आरोपयामः । देहे जाते अहमेव जातः इति,
देहे मृते अहमेव मृतः इति सर्वोऽपि अज्ञः मन्यते । नैतद्
आत्मनः नैजं स्वरूपम् । सा एषा अविद्या ॥

अस्तु । तर्हि, वेदान्तेषु आत्मनः स्वरूपं किम् ? आत्मा न
शरीरम्, अतः आत्मनः न जन्ममरणे भवतः । नात्मा प्राणः,
अतः नात्मनः अशनायापिपासे । नात्मा चित्तम्, अतः नात्मनः
शोकमोहौ स्तः । नात्मा अहङ्कारः, अतः तस्य बन्धमोक्षौ न
स्तः । आत्मा नित्यशुद्ध नित्यबुद्ध नित्यमुक्त स्वरूपः । आत्मा
अजः, अजरः, अमरः, अमृतः । आत्मा सच्चिदानन्दस्वरूपः ।
आत्मा अकर्तृ अभोक्तृस्वरूपः । इदमेव आत्मनः निजस्वरूपम् ॥

"https://sa.wikiquote.org/w/index.php?title=न_जायते_म्रियते...&oldid=16298" इत्यस्माद् प्रतिप्राप्तम्