न तत्र रथाः...

विकिसूक्तिः तः

न तत्र रथाः न रथयोगाः न पन्थानो भवन्ति, अथ रथान् रथयोगान्
पथः सृजते । - बृहदारण्यकोपनिषत् ४-३-१०

तत्र रथाः, अश्वाः, पन्थानो वा न विद्यन्ते । तथापि आत्मा स्वयमेव रथान्, अश्वान्,
पथश्च सृजति ॥

स्वप्ने आत्मा स्वयंज्योतिः स्वरूपः । जागरिते आत्मनः सहायकत्वेन शरीरेन्द्रियमनोबुद्धिप्राणाः
शब्दस्पर्शादिविषयाश्च विद्यन्ते । जाग्रदवस्थायां प्रमातृप्रमाणप्रमेयाः क्रियाकारकफलानि सर्वाणि
विद्यन्ते । जागरिते रथाः, अश्वाः, मार्गाः, सारथिः, गन्तव्यं स्थानं च इति सर्वं विद्यते ॥

स्वप्ने तु ? न किञ्चिदेतत् विद्यते । स्वप्नावस्थायाम् अश्वाः न विद्यन्ते, रथाः न सन्ति, पन्थानश्च
न विद्यन्ते, सारथिश्च न विद्यते । तथापि तत्र स्वप्ने आत्मा सर्वमपि स्वयमेव एकः सन् सृजति ।
स्वप्नेऽपि वयं भोजनादिकं कुर्मः होमहवनादिकं च कुर्मः । देशात् देशान्तरं च गच्छामः । यद्यपि तत्र
न कानिचन वस्तूनि विद्यन्ते, तथापि तानि सर्वाणि आत्मैव सृजति, आत्मा स्वयमेव सर्वं भवति ।
अनेन आत्मनः सर्वशक्तित्वं स्वयंप्रकाशत्वं च ज्ञायते ॥

"https://sa.wikiquote.org/w/index.php?title=न_तत्र_रथाः...&oldid=16495" इत्यस्माद् प्रतिप्राप्तम्