न तेजस्तेजस्वी...

विकिसूक्तिः तः

सुभाषितम्

न तेजस्तेजस्वी प्रसृतमपरेषां प्रसहते
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयग्रावा निकृत इव तेजांसि वमति ॥

na tejastejasvī prasṛtamapareṣāṃ prasahate
sa tasya svo bhāvaḥ prakṛtiniyatatvādakṛtakaḥ ।
mayūkhairaśrāntaṃ tapati yadi devo dinakaraḥ
kimāgneyagrāvā nikṛta iva tejāṃsi vamati ॥

पदच्छेदः

न, तेजः, तेजस्वी, प्रसृतम्, अपरेषां, प्रसहते, न, तस्य, स्वः, भावः, प्रकृतिनियतत्वात्, अकृतकः, मयूखैः, अश्रान्तं, तपति, यदि, देवः, दिनकरः, किम्, आग्नेयग्रावा, निकृतः, इव, तेजांसि, वमति ।


तात्पर्यम्

एकः तेजस्वी प्रतापी पुरुषः अन्यस्य पुरुषस्य तेजः न सहते । एषः स्वभावः प्रकृतिदत्तः जन्मसिद्धः स्वाभाविकः । सूर्यदेवः सर्वदा किरणान् विकीर्य यदि प्रकाशते, कुतो वा एकः अग्निसम्बद्धः पाषाणः (सूर्यकान्तमणिः) अग्निं स्रवति । तत्र कारणमपि इदमेव । तेजस्वी पुरुषः अन्यस्य तेजांसि न सहते । अयं स्वाभाविकः स्वभावः ।

"https://sa.wikiquote.org/w/index.php?title=न_तेजस्तेजस्वी...&oldid=16772" इत्यस्माद् प्रतिप्राप्तम्