न त्वहं कामये राज्यं...
दिखावट
सुभाषितम्
न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् ।
कामये दुःखताप्तानां प्राणिनाम् आर्तिनाशनम् ॥
na tvahaṃ kāmaye rājyaṃ na svargaṃ nāpunarbhavam ।
kāmaye duḥkhatāptānāṃ prāṇinām ārtināśanam ॥
पदच्छेदः
न तु अहं कामये राज्यं न स्वर्गं न अपुनर्भवम् कामये दुःखताप्तानां प्राणिनाम् आर्तिनाशनम् ॥
तात्पर्यम्
हे भगवन्! न राज्यं कामये, स्वर्गसुखं न कामये, मोक्षमपि न कामये। केवलं मम इच्छा अस्ति यत् दुःखपीडितानां जीवानां दुःखं समाप्तं भवेत्।
आङ्ग्लार्थः
O Lord! I do not desire a kingdom, I do not want the bliss of heaven, and I do not even desire salvation. My only desire is that the suffering of beings tormented by sorrow should end.