सामग्री पर जाएँ

न दृष्टेर्द्रष्टारं पश्येः...

विकिसूक्तिः तः

न दृष्टेर्द्रष्टारं पश्येः, न श्रुतेः श्रोतारं शृणुयाः, न मतेर्मन्तारं मन्वीथः,
न विज्ञातेः विज्ञातारं विजानीयाः । - बृहदारण्यकोपनिषत् ३-४-२

दृष्टेः द्र्ष्टारं न त्वं पश्येः, श्रुतेः श्रोतारं त्वं न शृणुयाः, मतेः मन्तारं
त्वं न मन्वीथाः, विज्ञातेर्विज्ञातारं त्वं न विजानीयाः ।

उषस्तचाक्रायणप्रश्नस्य प्रतिवचनत्वेन याज्ञवल्क्येन उक्तमेतद् वचः ।
आत्मानं लक्षयित्वा ‘अयमात्मा’ इति विशेषेण ब्रूहि इति चाक्रायणेन
पृष्टः भगवान् याज्ञवल्क्यः एवम् उवाच, न हि आत्मा नाम धेनुवत्
अश्ववत् कश्चित् सविशेषः पदार्थः, येन आत्मानम् अधिकृत्य एवम्
एवम् आत्मा इति वक्तुम् आत्मा शक्येत । अपि तु न आत्मा
सविशेषं वस्तु ॥

कथं तर्हि आत्मा अस्ति ? सर्वेन्द्रियाणि संव्याप्य इन्द्रियाणामपि
इन्द्रियभूतः । ईदृशमात्मानम् इन्द्रियैः विज्ञातुं नैव शक्यते । नेत्रैः
रूपाणि द्र्ष्टुं शक्यन्ते, न तु नेत्रद्र्ष्टारमात्मानं नेत्रैः द्र्ष्टुं शक्यते ।
श्रोत्राणामात्मभूतम् आत्मानम् श्रोत्रैः श्रोतुं न शक्यते । मनसोऽपि
साक्षिभूतम् आत्मानं मनसा मन्तुं न शक्यते ॥