न पक्षी विहगश्चैव...

विकिसूक्तिः तः

न पक्षी विहगश्चैव
द्रुतगामी न मारुतः।
न घनो घनवाही च
न मुखी मुखरस्स कः॥

आकाशे विहरति, किन्तु पक्षी न । (पक्षवान् किन्तु पक्षी(विहगः) न) ।
वेगेन चलति, किन्तु मारुतः न । मेघः न, किन्तु भारयुतं नयति । मुखं नास्ति,
किन्तु महान्तं शब्दं करोति । कः सः ?

उत्तरम्

विमानम्
"https://sa.wikiquote.org/w/index.php?title=न_पक्षी_विहगश्चैव...&oldid=1544" इत्यस्माद् प्रतिप्राप्तम्