न मातृवधेन, न पितृवधेन...

विकिसूक्तिः तः

न मातृवधेन, न पितृवधेन, न स्तेयेन, न भ्रूणहत्यया पापमस्य
भवति । - कौषीतकिब्राह्मणोपनिषत् ३-१

अस्य ब्रह्मात्मज्ञानिनः मातृहत्यया वा पितृवधेन वा सुवर्णस्तेयेन वा
शिशुहत्यया वा नैव किञ्चिदपि पापं भवति ।

सत्सम्प्रदायविद्भ्यः एव ज्ञानिभ्यः सद्गुरूभ्यः वेदान्तवाक्यानाम् अर्थः
विज्ञातव्यः इति दर्शयितुम् अयं मन्त्रः उदाहरणभूतोऽस्ति । अस्य मन्त्रस्य
अर्थः अविद्यया अन्यथैव विपरीततया अनेकैः गृहीतोऽस्ति । कस्तर्हि
उचितोऽर्थः ? इति, उच्यते ॥

कदाचित् ब्रह्मज्ञानिना पापकर्माणि कृतान्यपि चेत् तेन पापकर्मणा न
तस्य पापफललेपोऽस्ति । यतः ब्रह्मज्ञानिनः देहाद्यध्यासो वा कर्तृत्वबुद्धिर्वा
नैव सम्भवति । सर्वं हि अग्निर्दहति । काष्ठं वा संन्यासिनं वा शवं वा शिशुं
वा समानतया दहतः अग्नेः पापम् अस्ति किम् ? नैवास्ति । कर्तृत्वाभावात् ।
तथैव अध्यासरहितस्य परिपूर्णब्रह्मज्ञानिनः पुण्यपापकर्मणां लेपः स्वप्नेऽपि
सम्भावयितुं न शक्यते इत्यर्थः ॥