न वा अरे सर्वस्य...

विकिसूक्तिः तः

जगत् सर्वमपि आत्मार्थमेव

न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति, आत्मनस्तु कामाय
सर्वं प्रियं भवति । - बृहदारण्यकोपनिषत् २-४-५

अरे मैत्रेयि, अस्मिन् प्रपञ्चे न किञ्चित् वस्तु स्वस्य सुखाय अस्माकं
प्रियं भवति । आत्मनः कामायैव हि सर्वं प्रियं भवति ॥

सर्वः पुरुषः अनेकान् पदार्थान् कामयते प्रीणाति च । पतिः भार्यां, पत्नी
भर्तारं, पितरौ स्वपुत्रान्, पुत्राश्च स्वपितरौ प्रीणन्ति इति लोके वयं पश्यामः ।
एवमेव मानवाः समीपस्थान् बान्धवान्, सेवकान्, गृहक्षेत्रादीनि, वाहनयानादीनि च
प्रीणन्ति इति सर्वत्र पश्यामः ।

एतान् पदार्थान् वयम् अस्माकं सुखायैव प्रीणीमः, न तु तेषां पदार्थानां
सुखाय । पतिर्हि आत्मसुखायैव पत्नीं प्रीणाति । यदि कदाचित् तस्याः
पत्न्याः आत्मनः दुःखमेव भवेदिति जानाति, तदा तां पत्नीं सः दूरीकरोति
खलु ? सर्वथापि अयं प्रपञ्चः आत्मार्थ एव इति निर्णीयते । कोऽयमात्मा ?
इति वेदान्ताः विचार्य उपदिशन्ति । सर्वेषामपि आनन्दस्वरूपभूत एवायमात्मा ॥

"https://sa.wikiquote.org/w/index.php?title=न_वा_अरे_सर्वस्य...&oldid=16501" इत्यस्माद् प्रतिप्राप्तम्