न सन्दृशे तिष्ठति रूपमस्य...

विकिसूक्तिः तः
Jump to navigation Jump to search

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । - काठकोपनिषत् २-३-९

नास्य आत्मनः रूपं सन्दर्शनयोग्यम्, अत एव न कश्चिदपि इमम् आत्मानं नेत्राभ्यां पश्येत् ।

अग्निः, आदित्यः, इन्द्रः, सोमः, रामः, कृष्णः सरस्वती, लक्ष्मीः, गायत्री – इत्याद्याः देवताः उपासन्ते,
उपासकाः पश्यन्ति च । ताभिः देवताभिः सह ते सम्भाषन्ते च । नैतत् सर्वथा असाध्यम्, यतः एतेषां
देवानां भिन्नाः नामरूपगुणकर्मशक्तयो भवन्ति ॥

परब्रह्म तु नैवम् । नामरूपातीतं खलु परं ब्रह्म । न नेत्रगोचरं, न च श्रोतृविषयं ब्रह्म । परमात्मा हि इन्द्रियाणाम्
अविषयः । नेत्रस्य नेत्रभूतम् आत्मानं नेत्रैः द्रष्टुं शक्यते किम् ? नैव ॥

‘अहं ब्रह्म दृष्टवानस्मि, तुभ्यमपि दर्शयामि’ इति यः कश्चित् वदति चेत् नैतत् साधु वचः । यद् दृष्टं न तद्
ब्रह्म, यद् दर्श्यते तच्च न ब्रह्म, सर्वसाक्षिभूतं चिन्मात्रस्वरूपमेव ब्रह्म, तदेव अहमिति जानीयात् , एतदेव हि
वेदान्तेषु 'आत्मा ज्ञातव्यः, आत्मा द्र्ष्टव्यः' इति उपदिश्यते ॥