सामग्री पर जाएँ

न साम्ना शक्यते कीर्तिः...

विकिसूक्तिः तः

सुभाषितम्

न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ।
प्राप्तुं लक्ष्मण लोकेऽस्मिन् जयो वा रणमूर्धनि ॥

वाल्मीकि-रामायणम् ६-२१-१६

na sāmnā śakyate kīrtirna sāmnā śakyate yaśaḥ । prāptuṃ lakṣmaṇa loke'smin jayo vā raṇamūrdhani ॥

पदच्छेदः

न साम्ना शक्यते कीर्तिः न साम्ना शक्यते यशः प्राप्तुं लक्ष्मण लोके अस्मिन् जयः वा रणमूर्धनि ॥


तात्पर्यम्

हे लक्ष्मण ! शत्रुभिः सह शान्त्युपायेन कीर्तिः वा यशः वा युद्धभूमौ जयः वा नैव प्राप्तुं शक्यते।


आङ्ग्लार्थः

"O Lakshmana Neither fame nor popularity can win a battle front in this world."