पञ्जरचालनन्यायः

विकिसूक्तिः तः

एकस्मिन् पञ्जरे वर्तमानाः पक्षिणः पृथग्रूपेणा यत्नम् एकैकशः कृत्वा अपि तं पञ्जरम् उत्थापयितुं न शक्नुवन्ति । परन्तु ते सर्वे मिलित्वा यदि प्रयत्नं कुर्युः तदा तं पञ्जरम् उत्थापयितुं शक्नुयुः । एवं शरीरे वर्तमानाः प्राणाः संभूय शरीरं धारयन्ति इति अनेन बोध्यते ।

यथा- यथैकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूयैकं पञ्जरं चालयन्ति , एवम् एकं शरीरवर्तिनः एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूय एकां प्राणाख्यां वृत्तिं प्रतिजप्स्यन्त इति ।

ब्रह्मसूत्रशाङ्करभाष्ये २-४-९

"https://sa.wikiquote.org/w/index.php?title=पञ्जरचालनन्यायः&oldid=10313" इत्यस्माद् प्रतिप्राप्तम्